||Sundarakanda ||

|| Sarga 17||(Slokas in Devanagari )

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

हरिः ओम्

सुंदरकांड.
अथ सप्तदशस्सर्गः

ततः कुमुदषण्डाबो निर्मलो निर्मलं स्वयं।
प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम्॥1||

साचिव्य मिव कुर्वन् स प्रभया निर्मलप्रभः
चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम्॥2||

स ददर्श ततस्सीतां पूर्णचन्द्र निभाननाम्।
शोकभारैरिव न्यस्तां भारैर्नाव मिवाम्भसी॥3||

दिदृक्षमाणो वैदेहीं हनुमान् मारुतात्मजः।
स ददर्शा विदूरस्था राक्षसी र्घोरदर्शनाः॥4||

एकाक्षीं एककर्णां च कर्ण प्रवरणां तथा।
अकर्णां शंकुकर्णां च मस्तकोछ्छ्वासनाशिकाम्॥5||

अतिकायोत्तमाङ्गीम् च तनुदीर्घशिरोधरां।
ध्वस्थकेशीं तथाऽकेशीम् केशकम्बळधारिणीम्॥6||

लम्बकर्णललाटं च लम्बोदरपयोधराम्।
लम्बोष्टीं चुबुकोष्टीं च लम्बस्यां लम्बजानुकाम्॥7||

ह्रस्वां दीर्घां तथा कुब्जां विकटां वामनां तथा।
कराळां भुग्नवक्त्रां च पिङ्गाक्षीं विकृताननाम्॥8||

विकृताः पिङ्गळाः काळीः क्रोधनाः कलहप्रियाः।
कालायस महाशूल कूटमुद्गर धारिणीः॥9||

वराह मृग शार्दूल महिषाज शिवामुखीः।
गजोष्ट्र हयपादीश्च निखातशिरसो पराः॥10||

एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाः।
गोकर्णी हस्तिकर्णीच हरिकर्णी स्तथापरा॥11||

अनासा अतिनासाश्च तिर्यज्ञ्नास विनासिकाः।
गजसन्निभनासाश्च ललाटोच्छ्वासनासिकाः॥12||

हस्तिपादा महपादा गोपादाः पादचूळिकाः।
अतिमात्र शिरोग्रीवा अतिमात्रकुचोदरी॥13||

अतिमात्रास्यनेत्राश्च दीर्घजिह्वा नखास्तथा।
अजामुखीः हस्तिमुखीः गोमुखीः सूकरीमुखीः॥14||

हयोष्ट्र खरवक्त्राश्च राक्षसीर्घोरदर्शनाः।
शूलमुद्गर हस्ताश्च क्रोधनाः कलहप्रियाः॥15||

कराळा धूम्रकेशीश्च राक्षसीर्विकृताननाः।
पिबन्तीस्सततं पानं सदा मांस सुरा प्रियाः॥16||

मांस शोणितदिग्धाङ्गीः मांसशोणितभोजनाः।
ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः॥17||

स्कन्धवन्त मुपासीनाः परिवार्य वनस्पतिम्।
तस्याधस्ताच्च तां देवीं राजपुत्रीं अनिन्दिताम्॥18||

लक्षयामास लक्ष्मीवान् हनुमान् जनकात्मजाम्।
निष्प्रभां शोकसन्तप्तां मलसंकुलमूर्धजाम्॥19||

क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव।
चारित्र व्यपदेशाढ्यां भर्तृदर्शनदुर्गताम्॥20||

भूषणैरुत्तमार्हीनां भर्तृवात्सल्यभूषणाम्
राक्षसाधिपसंरुद्धां बन्धुभिश्च विनाकृताम्॥21||

वियूधां सिंहसंरुद्धां बद्धां गजवधूमिव।
चन्द्ररेखां पयोदान्ते शारदभ्रैरिवावृताम्॥22||

क्लिष्टरूपां असंस्पर्शा दयुक्ता मिव पल्लकीम्।
सीतां भर्तृवशे युक्तां अयुक्तां राक्षसी वशे॥23||

अशोककवनिका मध्ये शोकसागरमाप्लुताम्।
ताभिः परिवृतां तत्र सग्रह मिव रोहिणीम्॥24||

ददर्श हनुमान् देवीं लता मकुसुमामिव।
सा मलेन दिग्धाङ्गी वपुषा चाप्यलङ्कृता॥25||

मृणाळी पङ्कदिग्धेन विभाति न विभाति च।
मलिनेनतु वस्त्रेण परिक्लिष्टेन भामिनीम्॥26||

संवृतां मृग शाबाक्षीं ददर्श हनुमान् कपिः।
तां देवीं दीनवदनां अदीनां भर्तृतेजसा॥27||

रक्षितां स्वेन शीलेन सीतां असितलोचनाम्।
तां दृष्ट्वा हनुमान् सीतां मृगशाबनिभेक्षणाम्॥28||

मृग कन्यामिव त्रस्तां वीक्षमाणां समन्ततः।
दहंतीमिव निश्श्वासैः वृक्षान् पल्लवधारिणः॥29||

संघातमिव शोकानां दुख स्योर्मि मिवोत्थितां।
तां क्षमां सुविभक्ताङ्गीं विनाभरणशोभिनीम्॥30||

प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम्।
हर्षजानि च सोऽश्रूणि तां दृष्ट्वामदिरेक्षणाम्।
मुमुचे हनुमांस्तत्र नमश्चक्रे च राघवं ॥31||

नमस्कृत्वाच रामाय लक्ष्मणाय च वीर्यवान्।
सीतादर्शनसंहृष्टो हनुमान् संवृतोऽभवत्॥32||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे सप्तदशस्सर्गः॥

||om tat sat||.

 

|| Om tat sat ||